|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.51. अध्यायः 051
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
उत्तरदिगभिमानिदेवतया परदारत्वशङ्कया स्वभोगमनङ्गीकुर्वाणमष्टावक्रम्प्रति जरतीरूपत्यागेन कन्यारूपस्वीकरणपूर्वकं स्वपाणिग्रहणप्रार्थना॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
अथ सा स्त्री तमुवाच विप्रमेवं भवत्विति।
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत्॥ 13-51-1(83578)
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना।
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षत॥ 13-51-2(83579)
शनैश्चाच्छादितस्तत्र स्नानशालामुपागमत्।
भद्रासनं ततश्चित्रमृषिरन्वगमन्नवम्॥ 13-51-3(83580)
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा।
स्नापयामास शनकैस्तमृषिं सुखहस्तवत्।
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा॥ 13-51-4(83581)
जलेन सुसुखोष्णेन तस्या हस्तसुखेन च।
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः॥ 13-51-5(83582)
तत उत्थाय स मुनिस्तदा परमविस्मितः।
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि॥ 13-51-6(83583)
`सन्ध्योपासनमित्येव सर्वपापहरं न मे।'
तस्य बुद्धिरियं किन्तु मोहस्तत्त्वमिदं भवेत्॥ 13-51-7(83584)
अथोपास्य सहस्रांशुं किं कोरमीत्युवाच ताम्।
सा चामृतरसप्रख्यं क्रषेरन्नमुपाहरत्॥ 13-51-8(83585)
तस्य स्वादुतयाऽन्नस्य न प्रभूतं चकार सः।
व्यगमच्चाप्यहःशेष ततः सन्ध्याऽऽगमत्पुनः॥ 13-51-9(83586)
अथ सा स्त्री भगवन्तं सुप्यतामित्यचोदयत्।
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते॥ 13-51-10(83587)
[पृथक्र्वैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा।
तथाऽर्थरात्रे सा स्त्री तु शयनं तदुपागमत्॥] 13-51-11(83588)
अष्टावक्र उवाच। 13-51-12x(6882)
न भद्रे परदारेषु मनो मे सम्प्रसज्जति।
उत्तिष्ठ भद्रे भद्रं ते स्वापं वै विरमस्व च॥ 13-51-12(83589)
भीष्म उवाच। 13-51-13x(6883)
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता।
स्वतन्त्राऽस्मीत्युवाचर्षिं न धर्मच्छलमस्ति ते॥ 13-51-13(83590)
अष्टावक्र उवाच। 13-51-14x(6884)
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति॥ 13-51-14(83591)
स्त्र्युवाच। 13-51-15x(6885)
बाधने मैथुनं विप्र मम भक्तिं च पश्य वै।
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि॥ 13-51-15(83592)
अष्टावक्र उवाच। 13-51-16x(6886)
हरन्ति दोषजातानि नरमिन्द्रियकिङ्करम्।
प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज॥ 13-51-16(83593)
स्त्र्युवाच। 13-51-17x(6887)
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि।
भूमौ निपतमानायाः शरणं भव मेऽनघ॥ 13-51-17(83594)
यदि वा दोषजातं त्वं परदारेषु पश्यसि।
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज॥ 13-51-18(83595)
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम्।
स्वतन्त्रां मां विजानीहि यो धर्मः सोस्तु वै मयि।
त्वय्यावेशितचित्ता च स्वतन्त्राऽस्मि भजस्व माम्॥ 13-51-19(83596)
अष्टावक्र उवाच। 13-51-20x(6888)
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै।
नास्ति त्रिलोके स्त्री काचिद्या वै स्वातन्त्र्यमर्हति॥ 13-51-20(83597)
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति।
`न वृद्धामक्षतां मन्ये च चेच्छा त्वयि मेऽनघे' 13-51-21(83598)
स्त्र्युवाच। 13-51-22x(6889)
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः।
पत्नीं कुरुष्व मां विप्र श्रद्धां विजहि मा मम॥ 13-51-22(83599)
अष्टावक्र उवाच। 13-51-23x(6890)
यथा मम तथा तुभ्यं यथा तुभ्यं तथा मम।
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत्॥ 13-51-23(83600)
आश्चर्यं परमं हीदं किन्नु श्रेयो हि मे भवेत्।
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता॥ 13-51-24(83601)
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः।
कन्यारूपमिहाद्यैवं किमिवात्रोत्तरं भवेत्॥ 13-51-25(83602)
यथा मे परमा शक्तिर्न व्युत्थाने कथंचन।
न रोचते हि व्युत्थानं सत्येनासादयाम्यहम्॥ ॥ 13-51-26(83603)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकपञ्चाशोऽध्यायः॥ 51 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-51-2 अभ्यमृक्षति अभ्यञ्जितवती॥ 7-51-3 शनैश्चोत्सादित इति ड.झ. पाठः। तत्र उत्सादितः चालितः॥ 7-51-5 नाजानात् न ज्ञातवान्॥ 7-51-9 न प्रभूतं चकार पूर्णमिति नाभ्यवददित्यर्थः॥ 7-51-12 स्वयं वै विरमस्व चेति झ.पाठः॥ 7-51-13 स्वातन्त्र्यान्मम। न तव पारदार्यदोषोऽस्तीत्यर्थः॥ धर्मच्छलं परपुरुषप्रलोभनम्। नाधर्मफलमस्ति त इति ध. पाठः॥ 7-51-14 नास्तीति अप्रदत्ता त्वां न कामये इत्यर्थः॥ 7-51-18 स्पर्शयामि ददामि॥ 7-51-19 स्वतन्त्रामात्मप्रदानं इति शेषः। यो धर्मः पाणिग्रहणादिसंस्कारो मयि मन्निमित्तं सोस्तु॥ 7-51-22 विजहि मा मा नाशय॥ 7-51-23 तुभ्यं तव। सङ्गमश्रद्धेत्युभयत्र शेषः। किं तस्य मया कन्यार्थिना प्रार्तितस्य तत्कर्तृका इयं जिज्ञासा मम परीक्षा किमयं साधुरसाधुर्वेति॥ 7-51-24 विघ्रत्वमेवाह आश्चर्यमिति। पूर्वमतिजीर्णत्वेन दृष्टा पुनः कन्येव दृश्यत इति मायारूपमाश्चर्यम्॥ 7-51-25 अत्रास्मिन्विषये किमुत्तरं श्रेष्ठतरम्। पर्वपरिगृहीतस्यात्यागः उत एतस्याः स्वीकारः कर्तव्य इति भावः॥ 7-51-26 न व्युत्थास्येऽस्याः स्वीकारं न करिष्ये। व्युत्थानं धर्मातिक्रमो मम न रोचते किन्तु सत्येनासादयाम्बहं दारानिति शेषः। धृत्यैनां साधयाम्यहमिति ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|